संस्कृतोपासना

अनुवाचकेभ्यो स्वागतम् !कृपया भवत: अभिप्रायं अपि प्रकटयतु.....

Tuesday 10 January 2012

लकारा:सरला: ....

                      संस्कृतभाषायां कालबोधनाय दश लकारा: सन्ति l लट्,लिट्,लुट्,लृट्,लेट्,लोट् ,लङ्,लिङ्,लुङ्, लृङ् च l तत्र लिङ् लकार:द्वि प्रकारौ  - विधिर्लिन्ग्,आशीर्लिन्ग इति l लेट् लकार: वेदे एव उपयुज्यते l एते लकारा: द्वि प्रकारेण विभज्यते l  कालवाची प्रकारवाची चेति l कालवाची शब्देन भूत भावि वर्तमानकाला: संसूच्यन्ते l प्रकारवाची तु आशिषि ,विधि निमन्त्रनार्थे प्रयुज्यते l कालवाची लकारा:   लट्,लङ्,लुङ्,लिट्,लुट् ,लृट् चेति l  वार्तमानकाले प्रयुज्यमान :लकार: भवति लट् l उदा :- स: पाठं पठति l लङ् लकार: अनद्यतनभूतकाले उपयुज्यते l उदा:- अहं पाठं अपठं l 
लुङ् लकार: तु भूतकाले प्रयुज्यते l उदा:- प्रात: प्रार्थनां अभूत् l परोक्शभूतकालसूचक : लकार: भवति लिट् l उदा: -पुरा दशरथो नाम राजा बभूव  l लुट् लकार: अनद्यतनभविष्यकाले प्रयुज्यते l उदा: - षोडशे दिनाङ्गे 
संस्कृतोल्सवं भविता l भविष्यदर्थे लृट् उपयुज्यते l उदा:- श्व: अहं मन्दिरं गमिष्यामि l 
                                      लोट् ,विधिर्लिन्ग्,आशीर्लिन्ग ,लृङ् च प्रकारवाची लकारा:भवन्ति l आशिषी विधिनिमन्त्रनादि बोधनाय उपयुज्यमान: लकार :लोट् भवति l उदा :- स्वस्तिर्भवतु सर्वदा l  विधिनिमन्त्रानार्थे विधिर्लिन्ग् उपयुज्यते l उदा: - छात्रा : सत्यनिष्टा: भवेयु: l  आसीर्लिन् आशिषी उपयुज्यते  l उदा :- अध्यापका: त्यागधना: भूयासू : l लृङ्लकार: हेतुहेतुमत्भावे ,भूते च भविष्यति l उदा: - आगामिनि वर्षे सूर्यतापेन भूमि:ऊषरा: अभविष्यत् l 
     सर्वमेतत् संगृह्य एवं वक्तुं शक्यते :-
     "लट् वर्तमाने तु लेट् वेदे भूते लुङ्, लङ् लिडस्तथा  l 
     विध्याशिशौ तु लिङ् लोदौ लुट्  लृट् लृङ् च भविष्यति l 
प्रिया . ए 
सर्वोदया उचविद्यालय:,तृक्कूर.


No comments:

Post a Comment